+91-9414249819, +91-7790903055

    II श्री राधासर्वेश्वरो विजयते II

     
     

    II श्री राधासर्वेश्वरो विजयते II

    परात्परतरं ब्रह्म रसेश्वरमच्युतम,
    त्रिविधतापहर्तारं नौमी सर्वेश्वरं प्रभुम ||
    रससिंधुम रसाधारं रसदानपरायणम,
    राधामाधवमाराध्यम भजेद वृन्दावनाधिपम ||

    श्रीराधा-सर्वेश्वरअनन्त,अनादि,अनुपम,
    सर्वान्तर्यामी,सर्वसमर्थ,सर्वव्याप्त,सर्वाधार,भुक्ति,मुक्ति,शांति,भक्ति,ज्ञान
    ,वैराग्यआनंदसिंधु,भक्तवाञ्छाकल्पतरु सृष्टि के उत्पत्तिआदि के कर्ता,कारण,
    सच्चिदानंद स्वरूप परमात्मा की शरणागति से जीव को धर्म अर्थ काम मोक्ष की प्राप्ति होती हैं ||

    II श्रीगोपिकाविरहगीतं II

    एहि मुरारे कुञ्जविहारे एहि प्रणतजनबन्धो
    हे माधव मधुमथन वरेण्य केशव करुणासिन्धो
    रासनिकुञ्जे गुञ्जति नियतं भ्रमरशतं किल कान्त
    एहि निभृतपथपान्थ ।
    त्वामिह याचे दर्शनदानं हे मधुसूदन शान्त ॥ १॥

    शून्यं कुसुमासनमिह कुञ्जे शून्यः केलिकदम्बः
    अदीनः केकिकदम्बः ।
    मृदुकलनादं किल सविषादं रोदिति यमुना स्वम्भः ॥ २॥

    नवनीरजधरश्यामलसुन्दर चन्द्रकुसुमरुचिवेश
    गोपीगणहृदयेश ।
    गोवर्द्धनधर वृन्दावनचर वंशीधर परमेश ॥ ३॥

    राधारञ्जन कंसनिषूदन प्रणतिस्तावक चरणे
    निखिलनिराश्रयशरणे ।
    एहि जनार्दन पीताम्बरधर कुञ्जे मन्थरपवने ॥ ४॥
    श्री गोपिकाविरहगीतं श्री कृष्णार्पणमस्तु

    ॥ अथ श्री मधुराष्टकं ॥

    अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
    हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥

    वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
    चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥

    वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
    नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥

    गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
    रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥

    करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
    वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥

    गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
    सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥

    गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
    दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥

    गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
    दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥

    - श्रीवल्लभाचार्य कृत मधुराष्टकं श्री कृष्णार्पणमस्तु